३.१९.११

तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।
ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नः शूलपाणयः ॥

अन्वयः

तस्य his, तत् वचनम् those words, श्रुत्वा on hearing, ब्रह्मघ्नाः destroyers of brahmins, शूलपाणयः spears in hand, ते those, चतुर्दश राक्षसाः fourteen demons, सुसङ्क्रुद्धाः very angry, वाचम् words, ऊचुः spoke.

M N Dutt

Hearing those words of his, those fourteen grim Rākşasas bearing darts in their hands, exceedingly enraged, with their eyes reddened, breathing high spirits, harshly said to the sweetspeeched Rāma, having his eyes reddened whose prowess they had not seen before.

Summary

At these words, the destroyers of brahmins, the fourteen demons were inflamed. They lifted their spears and spoke:

पदच्छेदः

तस्यतद् (६.१)
तद्वचनंतद् (२.१)–वचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
राक्षसास्राक्षस (१.३)
तेतद् (१.३)
चतुर्दशचतुर्दशन् (१.१)
ऊचुर्ऊचुः (√वच् लिट् प्र.पु. बहु.)
वाचंवाच् (२.१)
सुसंक्रुद्धासु (अव्ययः)–संक्रुद्ध (√सम्-क्रुध् + क्त, १.३)
ब्रह्मघ्नाःब्रह्मन्–घ्न (१.३)
शूलपाणयःशूल–पाणि (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यद्व नं श्रु त्वा
राक्ष सा स्ते तुर्द
चु र्वा चंसु सं क्रु द्धा
ब्र ह्म घ्नः शू पा यः