३.१९.१६

इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश ।
उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः ।
चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ॥

अन्वयः

सङ्कृद्धाः mighty angry, ते those , राक्षसाः demons, इत्येवम् thus, उक्त्वा after saying, तानि शूलानि those spears, दुर्जयम् invincible, राघवं प्रति on Rama, चिक्षिपुः hurled.

M N Dutt

Having said this in wrath, those fourteen Rākşasas, uplifting their weapons and daggers rushed towards Rāma.

Summary

Saying these words, the fourteen infuriated demons hurled their spears at invincible Rama.

पदच्छेदः

इत्य्इति (अव्ययः)
एवम्एवम् (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
संरब्धासंरब्ध (√सम्-रभ् + क्त, १.३)
राक्षसास्राक्षस (१.३)
तेतद् (१.३)
चतुर्दशचतुर्दशन् (१.१)
उद्यतायुधनिस्त्रिंशाउद्यत (√उत्-यम् + क्त)–आयुध–निस्त्रिंश (१.३)
रामम्राम (२.१)
एवाभिदुद्रुवुःएव (अव्ययः)–अभिदुद्रुवुः (√अभि-द्रु लिट् प्र.पु. बहु.)
चिक्षिपुस्चिक्षिपुः (√क्षिप् लिट् प्र.पु. बहु.)
तानितद् (२.३)
शूलानिशूल (२.३)
राघवंराघव (२.१)
प्रतिप्रति (अव्ययः)
दुर्जयम्दुर्जय (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
त्ये मु क्त्वा सं ब्धा राक्ष सा स्ते
तुर्दद्य तायु नि स्त्रिं शा
रा मे वाभि दुद्रु वुः चिक्षि पु स्ता
नि शू लानि रा वंप्रति दुर्ज यम्