३.१९.१८

ततः पश्चान्महातेजा नाराचान्सूर्यसंनिभान् ।
जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ॥

अन्वयः

ततः then, महातेजाः effulgent, परमक्रुद्धः enraged, शिलाशितान् sharpened by stone, सूर्यसन्निभान् glowing like the Sun, चतुर्दश fourteen, नाराचान् arrows, जग्राह took.

Summary

Then the effulgent Rama, mighty angry, took fourteen arrows sharpened by stones and glowing like the Sun.

पदच्छेदः

ततःततस् (अव्ययः)
पश्चान्पश्चात् (अव्ययः)
महातेजामहत्–तेजस् (१.१)
नाराचान्नाराच (२.३)
सूर्यसंनिभान्सूर्य–संनिभ (२.३)
जग्राहजग्राह (√ग्रह् लिट् प्र.पु. एक.)
परमक्रुद्धश्परम–क्रुद्ध (√क्रुध् + क्त, १.१)
चतुर्दशचतुर्दशन् (२.१)
शिलाशितान्शिला–शित (√शा + क्त, २.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः श्चान्म हा ते जा
ना रा चा न्सूर्य संनि भान्
ग्रा क्रुद्ध
श्च तुर्दशि लाशि तान्