३.१९.१९

गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ।
मुमोच राघवो बाणान्वज्रानिव शतक्रतुः ॥

अन्वयः

राघवः Rama, धनुः bow, गृहीत्वा on taking, आयम्य after stretching, लक्ष्यान् the target, राक्षसान् the demons, उद्दिश्य aiming at, शतक्रतुः like Indra, वज्रानिव like thunderbolt, बाणान् arrows, मुमोच released.

Summary

Rama took the bow, stretched it and aimed at his target, the demons and sent the arrows as Indra would release the thunderbolt.

पदच्छेदः

गृहीत्वागृहीत्वा (√ग्रह् + क्त्वा)
धनुर्धनुस् (२.१)
आयम्यआयम्य (√आ-यम् + ल्यप्)
लक्ष्यान्लक्ष्य (२.३)
उद्दिश्यउद्दिश्य (√उत्-दिश् + ल्यप्)
राक्षसान्राक्षस (२.३)
मुमोचमुमोच (√मुच् लिट् प्र.पु. एक.)
राघवोराघव (१.१)
बाणान्बाण (२.३)
वज्रान्वज्र (२.३)
इवइव (अव्ययः)
शतक्रतुःशतक्रतु (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गृ ही त्वानु राम्य
क्ष्या नु द्दिश्य राक्ष सान्
मु मो रा वो बा णा
न्व ज्रानिक्र तुः