३.१९.२०

रुक्मपुङ्खाश्च विशिखाः प्रदीप्ता हेमभूषणाः ।
अन्तरिक्षे महोल्कानां बभूवुस्तुल्यवर्चसः ॥

पदच्छेदः

रुक्मपुङ्खाश्रुक्म–पुङ्ख (१.३)
(अव्ययः)
विशिखाःविशिख (१.३)
प्रदीप्ताप्रदीप्त (√प्र-दीप् + क्त, १.३)
हेमभूषणाःहेमन्–भूषण (१.३)
अन्तरिक्षेअन्तरिक्ष (७.१)
महोल्कानांमहत्–उल्का (६.३)
बभूवुस्बभूवुः (√भू लिट् प्र.पु. बहु.)
तुल्यवर्चसःतुल्य–वर्चस् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रुक्म पु ङ्खाश्चविशि खाः
प्र दी प्ता हे भू णाः
न्त रि क्षे हो ल्का नां
भू वु स्तुल्यर्च सः