३.१९.६

राघवोऽपि महच्चापं चामीकरविभूषितम् ।
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥

अन्वयः

धर्मात्मा righteous man, राघवोऽपि Rama too, चामीकरविभूषितम् decked with gold, महत् great, चापम् bow, सज्यम् stringed, चकार made, तानि those, रक्षांसि to the demons, अब्रवीत् च said.

M N Dutt

And the righteous Rāghava strung his mighty bow decked with gold; and addressed the Raksasas.

Summary

Righteous Rama too, lifted up his great bow decked with gold and fastened the string and then said to the demons:

पदच्छेदः

राघवोराघव (१.१)
ऽपिअपि (अव्ययः)
महच्महत् (२.१)
चापंचाप (२.१)
चामीकरविभूषितम्चामीकर–विभूषित (√वि-भूषय् + क्त, २.१)
चकारचकार (√कृ लिट् प्र.पु. एक.)
सज्यंसज्य (२.१)
धर्मात्माधर्म–आत्मन् (१.१)
तानितद् (२.३)
रक्षांसिरक्षस् (२.३)
चाब्रवीत् (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा वोऽपि च्चा पं
चा मीवि भूषि तम्
का ज्यं र्मा त्मा
तानि क्षांसि चाब्र वीत्