३.२.१६

पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम् ।
मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् ।
अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम् ॥

अन्वयः

सौम्य O gentle one, नरेन्द्रस्य king's, जनकस्य Janaka's, आत्मसम्भवाम् daughter, born of his own self, मम भार्याम् my wife, शुभाचाराम् of good conduct, अत्यन्तसुखसंवृद्धाम् brought up in utmost comfort, यशस्विनीम् an illustrious one, विराधाङ्के in the lap of Viradha, प्रवेशिताम् entered, राजपुत्रीम् princess, पश्य see.

M N Dutt

O amiable one, behold the daughter of king Janaka, my wife of pure ways, an illustrious princess brought up in luxury, on Virādha's waist.

Summary

Gentle Lakshmana, see the illustrious daughter ofJanaka, a lady of good conduct, brought up in utmost comfort caught in the lap of Viradha

पदच्छेदः

पश्यपश्य (√पश् लोट् म.पु. )
सौम्यसौम्य (८.१)
नरेन्द्रस्यनरेन्द्र (६.१)
जनकस्यात्मसम्भवाम्जनक (६.१)–आत्मसम्भवा (२.१)
मममद् (६.१)
भार्यांभार्या (२.१)
शुभाचारांशुभ–आचार (२.१)
विराधाङ्केविराध–अङ्क (७.१)
प्रवेशिताम्प्रवेशित (√प्र-वेशय् + क्त, २.१)
अत्यन्तसुखसंवृद्धांअत्यन्त–सुख–संवृद्ध (√सम्-वृध् + क्त, २.१)
राजपुत्रींराजन्–पुत्री (२.१)
यशस्विनीम्यशस्विन् (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
श्य सौम्य रे न्द्रस्य स्या
त्म सं वाम् भा र्यांशु भा चा रां
वि रा धा ङ्केप्र वेशि ताम् त्यन्तसु
सं वृ द्धां रा पु त्रींस्वि नीम्