३.२.१७

यदभिप्रेतमस्मासु प्रियं वर वृतं च यत् ।
कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण ॥

अन्वयः

लक्ष्मण O Lakshmana, अस्मासु for us, यत् whatever, अभिप्रेतम् desired, यत् that, वरवृतं च those boons desired, कैकेय्याः by Kaikeyi's, प्रियम् joy, अद्यैव to day itself, क्षिप्रम् now itself, सुसंवृतम् attained well.

Summary

O Lakshmana whatever Kaikeyi desired through her boons has now come true so soon.

पदच्छेदः

यद्यद् (१.१)
अभिप्रेतम्अभिप्रेत (√अभिप्र-इ + क्त, १.१)
अस्मासुमद् (७.३)
प्रियंप्रिय (१.१)
वरवृतंवर–वृत (√वृ + क्त, १.१)
(अव्ययः)
यत्यद् (१.१)
कैकेय्यास्कैकेयी (६.१)
तुतु (अव्ययः)
सुसंवृत्तंसु (अव्ययः)–संवृत्त (√सम्-वृत् + क्त, १.१)
क्षिप्रम्क्षिप्रम् (अव्ययः)
अद्यैवअद्य (अव्ययः)–एव (अव्ययः)
लक्ष्मणलक्ष्मण (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भि प्रे स्मासु
प्रि यंवृ तं यत्
कै के य्यास्तुसु सं वृ त्तं
क्षिप्र द्यैक्ष्म