३.२.२२

शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः ।
विराधस्य गतासोर्हि मही पास्यति शोणितम् ॥

अन्वयः

क्रुद्धेन by an angry one, मया by me, अद्य now, शरेण by the arrow, निहतस्य killed, गतासोः of one who loses life, रक्षसः of this demon, विराधस्य Viradha's, शोणितम् blood, मही the earth, पास्यति will drink.

M N Dutt

The earth shall drink the gore of this Rākşasa, Virādha, when deprived of life, after he has been slain with a shaft by my angry self.

Summary

The earth will drink the blood of Viradha with his life gone, slain by my angry arrow.

पदच्छेदः

शरेणशर (३.१)
निहतस्याद्यनिहत (√नि-हन् + क्त, ६.१)–अद्य (अव्ययः)
मयामद् (३.१)
क्रुद्धेनक्रुद्ध (√क्रुध् + क्त, ३.१)
रक्षसःरक्षस् (६.१)
विराधस्यविराध (६.१)
गतासोर्गतासु (६.१)
हिहि (अव्ययः)
महीमही (१.१)
पास्यतिपास्यति (√पा लृट् प्र.पु. एक.)
शोणितम्शोणित (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रेनि स्याद्य
या क्रु द्धेक्ष सः
वि रास्य ता सोर्हि
ही पास्यति शोणि तम्