३.२.६

वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम् ।
त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ॥

अन्वयः

वैयाघ्रम् tiger's, चर्म skin, वसानम् wore, वसार्द्रम् wet with marrow, रुधिरोक्षितम् drenched with blood, सर्वभूतानाम् of all beings, त्रासनम् causing terror, व्यादितास्यम् with wide open mouth, अन्तकम् इव like the god of death.

Summary

Wearing a tigerskin, he resembled the god of death. With a wide, open mouth, wet with marrow and drenched with blood, he struck terror into all beings.

पदच्छेदः

वसानंवसान (√वस् + शानच्, २.१)
चर्मचर्मन् (२.१)
वैयाघ्रंवैयाघ्र (२.१)
वसार्द्रंवसा–आर्द्र (२.१)
रुधिरोक्षितम्रुधिर–उक्षित (√उक्ष् + क्त, २.१)
त्रासनंत्रासन (२.१)
सर्वभूतानांसर्व–भूत (६.३)
व्यादितास्यम्व्यादित (√व्या-दा + क्त)–आस्य (२.१)
इवान्तकम्इव (अव्ययः)–अन्तक (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा नंर्म वै या घ्रं
सा र्द्रंरुधि रोक्षि तम्
त्रा नंर्व भू ता नां
व्यादि तास्यमि वान्त कम्