३.२.७

त्रीन्सिंहांश्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश ।
सविषाणं वसादिग्धं गजस्य च शिरो महत् ॥

अन्वयः

त्रीन् three, सिंहान् lions, चतुरः four, व्याघ्रान् tigers, द्वौ two, वृकौ wolves, दश ten, पृषतान् deer, सविषाणम् along with the tusk of an elephant, वसादिग्धम् wet with the fat of flesh, महत् great, गजस्य शिरः elephant's head, आयसे on an iron, शूले spoke, अवसज्य having pierced, महास्वनम् shouting loudly, विनदन्तम् while he produced.

Summary

Roaring loudly, he carried an iron spit in which were pierced three lions, four tigers, two wolves, ten deer and the huge head of an elephant with its tusks smeared with the fat of flesh.

पदच्छेदः

त्रीन्त्रि (२.३)
सिंहांश्सिंह (२.३)
चतुरोचतुर् (२.३)
व्याघ्रान्व्याघ्र (२.३)
द्वौद्वि (२.२)
वृकौवृक (२.२)
पृषतान्पृषत (२.३)
दशदशन् (२.१)
सविषाणं (अव्ययः)–विषाण (२.१)
वसादिग्धंवसा–दिग्ध (√दिह् + क्त, २.१)
गजस्यगज (६.१)
(अव्ययः)
शिरोशिरस् (२.१)
महत्महत् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्री न्सिं हांश्चतु रो व्या घ्रा
न्द्वौवृ कौपृ तान्द
वि षा णं सा दि ग्धं
स्यशि रो हत्