३.२०.२

मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः ।
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ॥

अन्वयः

मया myself, त्वत्प्रियार्थम् for your pleasure, इदानीम् just now, रुधिराशनाः who feed on blood, शूराः heroes, ते राक्षसाः those demons, विनिर्दिष्टाः commissioned, पुनः again, किमर्थम् for what reason, रुद्यते crying.

M N Dutt

I had but recently commissioned for your behoof those heroic Rākşasas living on flesh. Why then do you again weep?

Summary

The valiant demons who feed on blood have been commissioned for your pleasure. Why are you crying again?

पदच्छेदः

मयामद् (३.१)
त्व्तु (अव्ययः)
इदानींइदानीम् (अव्ययः)
शूरास्शूर (१.३)
तेतद् (१.३)
राक्षसाराक्षस (१.३)
रुधिराशनाःरुधिर–अशन (१.३)
त्वत्प्रियार्थंत्वद्–प्रिय–अर्थ (२.१)
विनिर्दिष्टाःविनिर्दिष्ट (√विनिः-दिश् + क्त, १.३)
किमर्थंकिमर्थम् (अव्ययः)
रुद्यतेरुद्यते (√रुद् प्र.पु. एक.)
पुनःपुनर् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यात्वि दा नीं शू रा स्ते
राक्ष सारुधि रा नाः
त्वत्प्रि या र्थंवि नि र्दि ष्टाः
कि र्थं रुद्य तेपु नः