३.२१.१

एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा ।
उवाच रक्षसां मध्ये खरः खरतरं वचः ॥

अन्वयः

ततः then, शूर्पणख्या by Surpanakha, एवम् in that way, रक्षसाम् of demons, मध्ये in the midst, आधर्षितः put to shame, शूरः hero, खरः Khara, खरतरम् harsher, वचः words, उवाच spoke.

M N Dutt

On being thus taunted by Śūrpanakha, Khara spoke these sharp words in the midst of the Raksasas.

Summary

Ashamed and accused thus in the presence of the demons, the valiant Khara spoke to Surpanakha in harsh words:

पदच्छेदः

एवम्एवम् (अव्ययः)
आधर्षितःआधर्षित (√आ-धर्षय् + क्त, १.१)
शूरःशूर (१.१)
शूर्पणख्याशूर्पणखा (३.१)
खरस्खर (१.१)
तदातदा (अव्ययः)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
रक्षसांरक्षस् (६.३)
मध्येमध्य (७.१)
खरःखर (१.१)
खरतरंखरतर (२.१)
वचःवचस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मार्षि तः शू रः
शूर्प ख्यास्त दा
वाक्ष सां ध्ये
रः रं चः