३.२१.१६

ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम् ।
सदश्वयुक्तं सोऽमर्षादारुरोह रथं खरः ॥

पदच्छेदः

ध्वजनिस्त्रिंशसम्पन्नंध्वज–निस्त्रिंश–सम्पन्न (√सम्-पद् + क्त, २.१)
किङ्किणीकविभूषितम्किङ्किणीक–विभूषित (√वि-भूषय् + क्त, २.१)
सदश्वयुक्तंसत्–अश्व–युक्त (√युज् + क्त, २.१)
सोतद् (१.१)
ऽमर्षाद्अमर्ष (५.१)
आरुरोहआरुरोह (√आ-रुह् लिट् प्र.पु. एक.)
रथंरथ (२.१)
खरःखर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ध्व नि स्त्रिं सं न्नं
किङ्कि णीवि भूषि तम्
श्व यु क्तं सो ऽम र्षा
दारु रो थं रः