३.२१.२३

तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान्भीमविक्रमान् ।
खरस्यापि रथः किंचिज्जगाम तदनन्तरम् ॥

अन्वयः

अभिद्रवतः going speedily to attack, भीमविक्रमान् of frightening prowess, तान् राक्षसान् those demons, दृष्ट्वा after seeing, किञ्चित् a little, तदनन्तरम् behind, खरस्य Khara's, रथः chariot, अपि too, जगाम went.

M N Dutt

Seeing those Rākṣasas of dreadful forms rushing out, Khara's car remaining a little away (from the press), proceeded after a short space.

Summary

Khara's chariot moved a bit behind the army of demons of frightening prowess who rushed forward to attack (Rama).

पदच्छेदः

तांस्तद् (२.३)
त्व्तु (अव्ययः)
अभिद्रवतोअभिद्रवत् (√अभि-द्रु + शतृ, २.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
राक्षसान्राक्षस (२.३)
भीमविक्रमान्भीम–विक्रम (२.३)
खरस्यापिखर (६.१)–अपि (अव्ययः)
रथःरथ (१.१)
किंचिज्कश्चित् (२.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
तदनन्तरम्तद्–अनन्तर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तांस्त्व भिद्र तो दृ ष्ट्वा
राक्ष सा न्भी विक्र मान्
स्यापि थः किंचि
ज्ज गान्त रम्