३.२१.५

परश्वधहतस्याद्य मन्दप्राणस्य भूतले ।
रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ॥

अन्वयः

राक्षसि O demoness, अद्य now, संयुगे in the fight, परश्वथहतस्य of one killed by an axe, मन्दप्राणस्य whose life has gone slow, रामस्य Rama's, रक्तम् red, उष्णम् hot, रुधिरम् blood, पास्यसि you can drink.

M N Dutt

You shall O Rākşasī, quaff on the ground the hot blood of Rāma of evil life, slain by my axe.

Summary

With his life ebbing out, killed by my axe in the fight, you will drink today, O demoness, Rama's red, hot blood.

पदच्छेदः

परश्वधहतस्याद्यपरश्वध–हत (√हन् + क्त, ६.१)–अद्य (अव्ययः)
मन्दप्राणस्यमन्द–प्राण (६.१)
भूतलेभू–तल (७.१)
रामस्यराम (६.१)
रुधिरंरुधिर (२.१)
रक्तम्रक्त (२.१)
उष्णंउष्ण (२.१)
पास्यसिपास्यसि (√पा लृट् म.पु. )
राक्षसिराक्षसी (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्व स्याद्य
न्द प्रास्य भू ले
रास्यरुधि रंक्त
मु ष्णं पास्यसि राक्षसि