३.२२.१२

प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः ।
उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः ॥

पदच्छेदः

प्रवातिप्रवाति (√प्र-वा लट् प्र.पु. एक.)
मारुतःमारुत (१.१)
शीघ्रंशीघ्रम् (अव्ययः)
निष्प्रभोनिष्प्रभ (१.१)
ऽभूद्अभूत् (√भू प्र.पु. एक.)
दिवाकरःदिवाकर (१.१)
उत्पेतुश्उत्पेतुः (√उत्-पत् लिट् प्र.पु. बहु.)
(अव्ययः)
विनाविना (अव्ययः)
रात्रिंरात्रि (२.१)
ताराःतारा (१.३)
खद्योतसप्रभाःखद्योत–सप्रभ (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र वाति मारु तः शी घ्रं
निष्प्र भो ऽभूद्दि वा रः
त्पे तुश्चवि ना रा त्रिं
ता राः द्योप्र भाः