३.२३.१४

तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया ।
हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ॥

अन्वयः

तस्मिन् when he, लक्ष्मणे Lakshmana, सीतया सह with Sita, गुहाम् into the cave, प्रविष्टे entered, रामः Rama, हन्त oh, निर्युक्तम् work is accomplished, इति this, उक्त्वा having spoken, कवचम् shield, आविशत् put on.

M N Dutt

Thereupon, saying, Ah! we have spoken it sharp, Rāma put on his mail. And adorned with that mail resembling fire Rāma appeared in the dark like a mighty flame streaming up.

Summary

With Lakshmana and Sita inside the cave, Rama heaved his shield, saying, Oh the work is accomplished.

पदच्छेदः

तस्मिन्तद् (७.१)
प्रविष्टेप्रविष्ट (√प्र-विश् + क्त, ७.१)
तुतु (अव्ययः)
गुहांगुहा (२.१)
लक्ष्मणेलक्ष्मण (७.१)
सहसह (अव्ययः)
सीतयासीता (३.१)
हन्तहन्त (अव्ययः)
निर्युक्तम्निर्युक्त (१.१)
इत्य्इति (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
रामःराम (१.१)
कवचम्कवच (२.१)
आविशत्आविशत् (√आ-विश् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मिन्प्र वि ष्टेतुगु हां
क्ष्म णे सी या
न्त नि र्युक्त मि त्यु क्त्वा
रा मः मावि शत्