३.२३.१६

स चापमुद्यम्य महच्छरानादाय वीर्यवान् ।
बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः ॥

अन्वयः

वीर्यवान् valiant, सः he, महत् huge, चापम् bow, उद्यम्य lifting, ज्यास्वनैः by the twangs of the bowstring, दिशः all directions, पूरयन् filling, तत्र there, अवस्थितः बभूव stayed.

M N Dutt

And uplifting his bow, and taking his arrows, that powerful one stood there, feeling all directions with the twangs of his bow-string.

Summary

Valiant Rama lifted the huge bow and arrows and stood there, filling the directions with the twangs of his bow.

पदच्छेदः

तद् (१.१)
चापम्चाप (२.१)
उद्यम्यउद्यम्य (√उत्-यम् + ल्यप्)
महच्महत् (२.१)
छरान्शर (२.३)
आदायआदाय (√आ-दा + ल्यप्)
वीर्यवान्वीर्यवत् (१.१)
बभूवावस्थितस्बभूव (√भू लिट् प्र.पु. एक.)–अवस्थित (√अव-स्था + क्त, १.१)
तत्रतत्र (अव्ययः)
ज्यास्वनैःज्या–स्वन (३.३)
पूरयन्पूरयत् (√पूरय् + शतृ, १.१)
दिशःदिश् (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चा मु द्यम्य
च्छ रा ना दा वीर्य वान्
भू वास्थि स्तत्र
ज्यास्व नैः पून्दि शः