३.२३.६

यादृशा इह कूजन्ति पक्षिणो वनचारिणः ।
अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ॥

अन्वयः

इह here, वनचारिणः moving in the forest, पक्षिणः birds, यादृशाः in such way, कूजन्ति screeching, नः for us, अग्रतः in future, भयम् fear, प्राप्तम् is foreseen, जीवितस्य of life, संशयः च also doubtful.

M N Dutt

Meseems from the noise of the wild birds that impending on us is danger and uncertainty to life.

Summary

The way the forestbirds are screeching makes me foresee danger and makes survival doubtful.

पदच्छेदः

यादृशायादृश (१.३)
इहइह (अव्ययः)
कूजन्तिकूजन्ति (√कूज् लट् प्र.पु. बहु.)
पक्षिणोपक्षिन् (१.३)
वनचारिणःवन–चारिन् (१.३)
अग्रतोअग्रतस् (अव्ययः)
नोमद् (६.३)
भयंभय (१.१)
प्राप्तंप्राप्त (√प्र-आप् + क्त, १.१)
संशयोसंशय (१.१)
जीवितस्यजीवित (६.१)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यादृ शा कून्ति
क्षि णो चारि णः
ग्र तो नो यं प्रा प्तं
सं यो जीविस्य