३.२४.१७

ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ।
आददू रक्षसां प्राणान्पाशाः कालकृता इव ॥

अन्वयः

रामेण by Rama, लीलया sportively, शत्रुसैन्येषु at the army of the enemy, मुक्ताः released, ते शराः those arrows, कालकृताः made by the god of death, पाशाः nooses, इव like, रक्षसाम् of the demons, प्राणान् life, आददुः pulled out.

M N Dutt

And sportively discharged by Rāma, those arrows deprived the Rākṣasas of their lives, like the noose forged by death.

Summary

The arrows like the noose of the god of death released by Rama on the enemy army easily destroyed the lives of the demons.

पदच्छेदः

तेतद् (१.३)
शराःशर (१.३)
शत्रुसैन्येषुशत्रु–सैन्य (७.३)
मुक्तामुक्त (√मुच् + क्त, १.३)
रामेणराम (३.१)
लीलयालीला (३.१)
आददूआददुः (√आ-दा लिट् प्र.पु. बहु.)
रक्षसांरक्षस् (६.३)
प्राणान्प्राण (२.३)
पाशाःपाश (१.३)
कालकृताकाल–कृत (√कृ + क्त, १.३)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते राःत्रु सै न्येषु
मु क्ता रा मे ली या
दूक्ष सां प्रा णा
न्पा शाः काकृ ता