३.२४.१९

असंख्येयास्तु रामस्य सायकाश्चापमण्डलात् ।
विनिष्पेतुरतीवोग्रा रक्षः प्राणापहारिणः ॥

अन्वयः

रामस्य Rama's, चापमण्डलात् from the bow bent into a circle, अतीव highly, उग्राः fierce, रक्षःप्राणापहारिणः which can take the lives of demons, असङ्ख्येयाः countless ones, सायकाः arrows, विनिष्पेतुः thrown out destroying.

M N Dutt

And innumerable shafts, exceedingly fierce, capable of depriving the Rāksasas of their lives, were let go from the circle of his bow.

Summary

From Rama's bow bent into a cirle, countless fierce arrows able to take the lives of demons were released.

पदच्छेदः

असंख्येयास्असंख्येय (१.३)
तुतु (अव्ययः)
रामस्यराम (६.१)
सायकाश्सायक (१.३)
चापमण्डलात्चाप–मण्डल (५.१)
विनिष्पेतुर्विनिष्पेतुः (√विनिः-पत् लिट् प्र.पु. बहु.)
अतीवोग्राअतीव (अव्ययः)–उग्र (१.३)
रक्षःप्राणापहारिणःरक्षस्–प्राण–अपहारिन् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं ख्ये यास्तु रास्य
सा का श्चाण्ड लात्
वि नि ष्पेतु ती वो ग्रा
क्षः प्रा णा हारि णः