३.२४.३

स खरस्याज्ञया सूतस्तुरगान्समचोदयत् ।
यत्र रामो महाबाहुरेको धुन्वन्धनुः स्थितः ॥

अन्वयः

सः that, सूतः charioteer, खरस्य Khara's, आज्ञया by the order, महाबाहुः mightyarmed, एकः alone, रामः Rama, धनुः bow, चुन्वन् selecting, स्थितः stood, तुरगान् horses, समचोदयत् drove.

M N Dutt

At Khara's command, the charioteer drove the steeds to where the mighty—arined Rāma stood alone, holding his bow.

Summary

Commanded by Khara, the charioteer also urged the horses towards the mightyarmed Rama standing alone and wielding the bow.

पदच्छेदः

तद् (१.१)
खरस्याज्ञयाखर (६.१)–आज्ञा (३.१)
सूतस्सूत (१.१)
तुरगान्तुरग (२.३)
समचोदयत्समचोदयत् (√सम्-चोदय् लङ् प्र.पु. एक.)
यत्रयत्र (अव्ययः)
रामोराम (१.१)
महाबाहुर्महत्–बाहु (१.१)
एकोएक (१.१)
धुन्वन्धुन्वत् (√धू + शतृ, १.१)
धनुःधनुस् (२.१)
स्थितःस्थित (√स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्याज्ञ या सू
स्तु गान्स चो यत्
त्र रा मो हा बाहु
रे को धु न्वन्ध नुःस्थि तः