३.२५.१३

दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः ।
तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तानतिथीनिव ॥

अन्वयः

राघवः Rama, तूर्णम् quickly, आपततः attacking, दृष्ट्वैव on seeing, शितैः with sharp weapons, तीक्ष्णाग्रैः pointed , सायकैः with arrows, सम्प्राप्तान् those who arrived, अतिथीनिव like guests, प्रतिजग्राह received.

M N Dutt

And as Rāghava beheld them advance, he resisted them by means of sharp and keen-edged shafts, even as one receives guests that have come.

Summary

On seeing them rushing to attack him with sharp weapons, Rama received them quickly with pointed arrows as though they were guests.

पदच्छेदः

दृष्ट्वैवापततस्दृष्ट्वा (√दृश् + क्त्वा)–एव (अव्ययः)–आपतत् (√आ-पत् + शतृ, २.३)
तांस्तद् (२.३)
तुतु (अव्ययः)
राघवःराघव (१.१)
सायकैःसायक (३.३)
शितैःशित (√शा + क्त, ३.३)
तीक्ष्णाग्रैःतीक्ष्ण–अग्र (३.३)
प्रतिजग्राहप्रतिजग्राह (√प्रति-ग्रह् लिट् प्र.पु. एक.)
सम्प्राप्तान्सम्प्राप्त (√सम्प्र-आप् + क्त, २.३)
अतिथीन्अतिथि (२.३)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दृ ष्ट्वै वा स्तांस्तु
रा वः सा कैःशि तैः
ती क्ष्णा ग्रैःप्रति ग्रा
सं प्रा प्ताति थीनि