३.२७.१२

तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् ।
दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥

अन्वयः

सिंहमिव like a lion, विक्रान्तम् aggressive, सिंह विक्रान्तगामिनम् advancing to attack, तम् him, दृष्ट्वा seeing, रामः Rama, सिंहः lion, क्षुद्रमृगं यथा just like a fawn, नोद्विजते not perturbed.

M N Dutt

Seeing that one powerful like the lion, and gifted with the vigorous gait of the lion, Rāma was not moved, as a lion seeing a puny deer (is not moved).

Summary

When Rama saw Khara aggressively advancing like a lion to attack him, he was not perturbed, for he knew he was a fawn before a lion (which Rama was).

पदच्छेदः

तंतद् (२.१)
सिंहम्सिंह (२.१)
इवइव (अव्ययः)
विक्रान्तंविक्रान्त (√वि-क्रम् + क्त, २.१)
सिंहविक्रान्तगामिनम्सिंह–विक्रान्त–गामिन् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
नोद्विजते (अव्ययः)–उद्विजते (√उत्-विज् लट् प्र.पु. एक.)
रामःराम (१.१)
सिंहःसिंह (१.१)
क्षुद्रमृगंक्षुद्र–मृग (२.१)
यथायथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं सिंमि वि क्रा न्तं
सिं वि क्रान्त गामि नम्
दृ ष्ट्वा नोद्वि ते रा मः
सिं हः क्षुद्रमृ गं था