३.२७.१४

ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः ।
खरश्चिच्छेद रामस्य दर्शयन्पाणिलाघवम् ॥

अन्वयः

ततः then, खरः Khara, पाणिलाघवम् agility of the hand, दर्शयन् exhibiting, महात्मनः of the great self, अस्य रामस्य Rama's, सशरम् along with the arrow, चापम् bow, मुष्टिदेशे at the grip, चिच्छेद shattered.

M N Dutt

And, displaying his lightness of hand, Khara severed the bow of the magnanimous Rāma, with the arrow (fixed on it) at the place where it is grasped.

Summary

Exhibiting his agility of the hand, Khara shattered the bow and the arrow in the grip of Rama ,the great soul.

पदच्छेदः

ततोततस् (अव्ययः)
ऽस्यइदम् (६.१)
सशरं (अव्ययः)–शर (२.१)
चापंचाप (२.१)
मुष्टिदेशेमुष्टिदेश (७.१)
महात्मनःमहात्मन् (६.१)
खरश्खर (१.१)
चिछेदचिछेद (√छिद् लिट् प्र.पु. एक.)
रामस्यराम (६.१)
दर्शयन्दर्शयत् (√दर्शय् + शतृ, १.१)
पाणिलाघवम्पाणि–लाघव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोऽस्य रं चा पं
मुष्टि दे शे हात्म नः
श्चि च्छे रास्य
र्श न्पाणि ला वम्