३.२८.२३

कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् ।
अस्तं गच्छेद्धि सविता युद्धविघ्रस्ततो भवेत् ॥

अन्वयः

त्वयि on you, बहु much, वक्तव्यमपि has to be said, कामम् indeed, तु but, अहम् I, न वक्ष्यामि not speak any more, सविता Sun, अस्तं गच्छेत् will set, ततः thereafter, युद्धविघ्नः obstacle to wage war, भवेत् will be.

M N Dutt

But I will not parley much with you as much as I could wish: the sun is going to set, and our fight shall be interrupted.

Summary

Indeed, I shall not speak any more even though a lot can be said on you. But the Sun is about to set and it will be improper to wage war thereafter.

पदच्छेदः

कामंकामम् (अव्ययः)
बह्व्बहु (१.१)
अपिअपि (अव्ययः)
वक्तव्यंवक्तव्य (√वच् + कृत्, १.१)
त्वयित्वद् (७.१)
वक्ष्यामिवक्ष्यामि (√वच् लृट् उ.पु. )
(अव्ययः)
त्व्तु (अव्ययः)
अहम्मद् (१.१)
अस्तंअस्त (२.१)
गच्छेद्धिगच्छेत् (√गम् विधिलिङ् प्र.पु. एक.)–हि (अव्ययः)
सवितासवितृ (१.१)
युद्धविघ्नस्युद्ध–विघ्न (१.१)
ततोततस् (अव्ययः)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का मंह्वपि क्त व्यं
त्वयि क्ष्यामित्व हम्
स्तं च्छेद्धिवि ता
युद्ध वि घ्रस्त तो वेत्