३.२८.३

उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥

अन्वयः

भूतानाम् of all beings, उद्वेजनीयः causing distress, पापकर्मकृत् doer of sinful deeds, नृशंसः wicked, त्रयाणाम् of the three, लोकानाम् worlds, ईश्वरोऽपि even if he is the lord, न तिष्ठति not survive.

Summary

One who is wicked, does sinful deeds and causes distress to all beings, will not survive even if he is the lord of the three worlds.

पदच्छेदः

उद्वेजनीयोउद्वेजनीय (√उत्-विज् + अनीयर्, १.१)
भूतानांभूत (६.३)
नृशंसःनृशंस (१.१)
पापकर्मकृत्पाप–कर्मन्–कृत् (१.१)
त्रयाणाम्त्रि (६.३)
अपिअपि (अव्ययः)
लोकानाम्लोक (६.३)
ईश्वरोईश्वर (१.१)
ऽपिअपि (अव्ययः)
(अव्ययः)
तिष्ठतितिष्ठति (√स्था लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्वे नी यो भू ता नां
नृ शं सः पार्म कृत्
त्र या णापि लो का ना
मीश्व रोऽपि तिष्ठति