३.२८.४

कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर ।
तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥

अन्वयः

क्षणदाचर O nightranger लोकविरुद्धम् that which is against the world, कर्म deeds, कुर्वाणम् who does, तीक्ष्णम् a terrific, सर्वजनः all people, आगतम् befallen, दुष्टम् cruel, सर्पमिव like a serpent, हन्ति will kill.

Summary

O nightranger, one who does a horrific deed which is against the world will be killed like an evil serpent come near.

पदच्छेदः

कर्मकर्मन् (२.१)
लोकविरुद्धंलोक–विरुद्ध (√वि-रुध् + क्त, २.१)
तुतु (अव्ययः)
कुर्वाणंकुर्वाण (√कृ + शानच्, २.१)
क्षणदाचरक्षणदा–चर (८.१)
तीक्ष्णंतीक्ष्ण (२.१)
सर्वजनोसर्व–जन (१.१)
हन्तिहन्ति (√हन् लट् प्र.पु. एक.)
सर्पंसर्प (२.१)
दुष्टम्दुष्ट (√दुष् + क्त, २.१)
इवागतम्इव (अव्ययः)–आगत (√आ-गम् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्म लोवि रु द्धंतु
कु र्वा णंक्ष दा
ती क्ष्णंर्व नोन्ति
र्पं दुष्टमि वा तम्