३.२९.१

भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः ।
स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥

अन्वयः

धर्मवत्सलः fond of dharma, राघवः Rama, तां गदाम् that mace, बाणैः by arrows, भित्त्वा after breaking into pieces, स्मयमानः smiling, संरब्धम् confused, खरम् Khara, इदं वाक्यम् these words, अब्रवीत् spoke.

M N Dutt

Cutting off the mace with his shafts, Rāghava attached to righteousness with a smile said to Khara these angry words.

Summary

Rama, fond of dharma, broke into pieces Khara's mace with his arrows, and smiling at bewildered Khara, said:

पदच्छेदः

भित्त्वाभित्त्वा (√भिद् + क्त्वा)
तुतु (अव्ययः)
तांतद् (२.१)
गदांगदा (२.१)
बाणैबाण (३.३)
राघवोराघव (१.१)
धर्मवत्सलःधर्म–वत्सल (१.१)
स्मयमानःस्मयमान (√स्मि + शानच्, १.१)
खरंखर (२.१)
वाक्यंवाक्य (२.१)
संरब्धम्संरब्ध (२.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भि त्त्वातु तां दां बा णै
रा वोर्मत्स लः
स्म मा नः रं वा क्यं
संब्धमिब्र वीत्