३.२९.२६

स विमुक्तो महाबाणो निर्घातसमनिःस्वनः ।
रामेण धनुरुद्यम्य खरस्योरसि चापतत् ॥

अन्वयः

रामेण by Rama, धनुः bow, आयम्य on bending, खरस्य Khara's, उरसि on the chest, विमुक्तः released, निर्घातसमनिस्वनः sounding like a violent gust of wind, सः बाणः that arrow, अपतत् fell.

M N Dutt

And discharged by Rāma from his bent bow, that mighty arrow with the roaring of the thunderbolt fell at Khara's breast.

Summary

Bending the bow fully, Rama released the arrow roaring like a violent gust of wind, which fell on Khara's chest.

पदच्छेदः

तद् (१.१)
विमुक्तोविमुक्त (√वि-मुच् + क्त, १.१)
महाबाणोमहत्–बाण (१.१)
निर्घातसमनिःस्वनःनिर्घात–सम–निःस्वन (१.१)
रामेणराम (३.१)
धनुर्धनुस् (२.१)
उद्यम्यउद्यम्य (√उत्-यम् + ल्यप्)
खरस्योरसिखर (६.१)–उरस् (७.१)
चापतत् (अव्ययः)–अपतत् (√पत् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि मु क्तो हा बा णो
नि र्घा निःस्व नः
रा मेनु रु द्यम्य
स्योसि चा तत्