३.२९.४

यत्त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम् ।
राक्षसानां करोमीति मिथ्या तदपि ते वचः ॥

अन्वयः

अहम् I, विनष्टानाम् of the dead, राक्षसानाम् of the demons, अश्रुप्रमार्जनम् wiping tears, करोमीति I will do, त्वया by you, यत् whatever, उक्तम् uttered, ते by you, तत् that, वचः अपि word too, मिथ्या false.

M N Dutt

And what you had said, will wipe the tears of the Rākşasas that have been slain, has also proved false.

Summary

You said you will wipe the tears of the dead demons. (Now) those words have proved false.

पदच्छेदः

यत्यद् (१.१)
त्वयोक्तंत्वद् (३.१)–उक्त (√वच् + क्त, १.१)
विनष्टानाम्विनष्ट (√वि-नश् + क्त, ६.३)
इदम्इदम् (१.१)
अश्रुप्रमार्जनम्अश्रु–प्रमार्जन (१.१)
राक्षसानांराक्षस (६.३)
करोमीतिकरोमि (√कृ लट् उ.पु. )–इति (अव्ययः)
मिथ्यामिथ्या (अव्ययः)
तद्तद् (१.१)
अपिअपि (अव्ययः)
तेत्वद् (६.१)
वचःवचस् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्त्व यो क्तंवि ष्टा ना
मि श्रुप्र मार्ज नम्
राक्ष सा नां रो मीति
मि थ्यापि ते चः