३.३.२७

ततस्तु तौ काञ्चनचित्रकार्मुकौ; निहत्य रक्षः परिगृह्य मैथिलीम् ।
विजह्रतुस्तौ मुदितौ महावने; दिवि स्थितौ चन्द्रदिवाकराविव ॥

पदच्छेदः

ततस्ततस् (अव्ययः)
तुतु (अव्ययः)
तौतद् (१.२)
काञ्चनचित्रकार्मुकौकाञ्चन–चित्र–कार्मुक (१.२)
निहत्यनिहत्य (√नि-हन् + ल्यप्)
रक्षःरक्षस् (२.१)
परिगृह्यपरिगृह्य (√परि-ग्रह् + ल्यप्)
मैथिलीम्मैथिली (२.१)
विजह्रतुस्विजह्रतुः (√वि-हृ लिट् प्र.पु. द्वि.)
तौतद् (१.२)
मुदितौमुदित (√मुद् + क्त, १.२)
महावनेमहत्–वन (७.१)
दिविदिव् (७.१)
स्थितौस्थित (√स्था + क्त, १.२)
चन्द्रदिवाकराव्चन्द्र–दिवाकर (१.२)
इवइव (अव्ययः)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
स्तु तौ काञ्च चित्र कार्मु कौ
नित्य क्षःरि गृह्य मैथि लीम्
विह्र तु स्तौमुदि तौ हा ने
दि विस्थि तौन्द्रदि वा रावि