३.३.५

पुत्रः किल जयस्याहं माता मम शतह्रदा ।
विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ॥

अन्वयः

अहम् I am, जयस्य Jaya's, पुत्रः son, किल indeed, शतह्रदा Satahrada, मम my, माता mother, पृथिव्याम् on this earth, सर्वराक्षसाः all the demons, माम् me, विराधः Viradha इति so, आहुः call me.

M N Dutt

I am son of Java, and my mother is Satahradā. All the Rāksasas of the earth have called me Virādha.

Summary

I am indeed son to Jaya. My mother is Satahrada. Verily all the demons on this earth call me Viradha.

पदच्छेदः

पुत्रःपुत्र (१.१)
किलकिल (अव्ययः)
जयस्याहंजय (६.१)–मद् (१.१)
मातामातृ (१.१)
मममद् (६.१)
शतह्रदाशतह्रदा (१.१)
विराधविराध (१.१)
इतिइति (अव्ययः)
माम्मद् (२.१)
आहुःआहुः (√अह् लिट् प्र.पु. बहु.)
पृथिव्यांपृथिवी (७.१)
सर्वराक्षसाःसर्व–राक्षस (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु त्रःकि स्या हं
मा ताह्र दा
वि राति मा मा हुः
पृ थि व्यांर्व राक्ष साः