३.३०.२१

राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम् ।
तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ।
राक्षसेन्द्रं महाभागं पौलस्त्य कुलनन्दनम् ॥

पदच्छेदः

राक्षसीराक्षसी (१.१)
भ्रातरंभ्रातृ (२.१)
क्रूरंक्रूर (२.१)
सातद् (१.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
महाबलम्महत्–बल (२.१)
तंतद् (२.१)
दिव्यवस्त्राभरणंदिव्य–वस्त्र–आभरण (२.१)
दिव्यमाल्योपशोभितम्दिव्य–माल्य–उपशोभित (√उप-शोभय् + क्त, २.१)
राक्षसेन्द्रंराक्षस–इन्द्र (२.१)
महाभागंमहाभाग (२.१)
पौलस्त्यकुलनन्दनम्पौलस्त्य–कुल–नन्दन (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
राक्ष सी भ्रा रं क्रू रं सार्श
हा लम् तं दिव्य स्त्रा णं
दिव्य मा ल्यो शोभि तम् राक्ष से न्द्रं
हा भा गं पौस्त्यकुन्द नम्