३.३१.१७

शुष्ककाष्ठैर्भवेत्कार्यं लोष्टैरपि च पांसुभिः ।
न तु स्थानात्परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः ॥

अन्वयः

शुष्कैः dried up, काष्ठैः logs of wood, लोष्टैरपि even clods of earth, पांसुभिरपि च even with the dust, कार्यम् may have some value, भवेत् will be, तु but, स्थानात् from the throne, परिभ्रष्टैः thrown out, वसुधाधिपै by the kings, कार्यम् work, न स्यात् will not be.

M N Dutt

Even dry wood may serve a purpose; or stone, or dust; but no purpose is capable of being served by a sovereign that has been cast off his place.

Summary

Even dried up logs, or clods of earth, or a handful of dust may have some value but not a king who is dethroned.

पदच्छेदः

शुष्ककाष्ठैर्शुष्क–काष्ठ (३.३)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
कार्यंकार्य (१.१)
लोष्टैर्लोष्ट (३.३)
अपिअपि (अव्ययः)
(अव्ययः)
पांसुभिःपांसु (३.३)
(अव्ययः)
तुतु (अव्ययः)
स्थानात्स्थान (५.१)
परिभ्रष्टैःपरिभ्रष्ट (√परि-भ्रंश् + क्त, ३.३)
कार्यंकार्य (१.१)
स्याद्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
वसुधाधिपैःवसुधा–अधिप (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शुष्क का ष्ठैर्भ वे त्का र्यं
लो ष्टैपि पांसु भिः
तु स्था नात्प रि भ्र ष्टैः
का र्यं स्याद्वसु धाधि पैः