३.३१.९

यस्मात्पश्यन्ति दूरस्थान्सर्वानर्थान्नराधिपाः ।
चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः ॥

अन्वयः

नराधिपाः kings, यस्मात् since, दूरस्थान् things at distant places, सर्वान् all, अर्थान् issues, चारेण by spies, पश्यन्ति see, तस्मात् for that, राजानः kings, दीर्घचक्षुषः farsighted, उच्यन्ते are called.

M N Dutt

It is because kings know distant dangers through spies, therefore they are styled farsighted.

Summary

Since kings can see things from a faroff place with the help of the spies they are called farsighted.

पदच्छेदः

यस्मात्यद् (५.१)
पश्यन्तिपश्यन्ति (√दृश् लट् प्र.पु. बहु.)
दूरस्थान्दूर–स्थ (२.३)
सर्वान्सर्व (२.३)
अर्थान्अर्थ (२.३)
नराधिपाःनर–अधिप (१.३)
चारेणचार (३.१)
तस्माद्तद् (५.१)
उच्यन्तेउच्यन्ते (√वच् प्र.पु. बहु.)
राजानोराजन् (१.३)
दीर्घचक्षुषःदीर्घ–चक्षुस् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मा त्प श्यन्ति दू स्था
न्स र्वा र्थान्न राधि पाः
चा रे स्मा दु च्य न्ते
रा जा नो दीर्घक्षु षः