३.३३.२७

अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् ।
तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् ॥

पदच्छेदः

अनूपंअनूप (२.१)
सिन्धुराजस्यसिन्धुराज (६.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
त्रिदिवोपमम्त्रिदिव–उपम (२.१)
तत्रापश्यत्तत्र (अव्ययः)–अपश्यत् (√पश् लङ् प्र.पु. एक.)
तद् (१.१)
मेघाभंमेघ–आभ (२.१)
न्यग्रोधम्न्यग्रोध (२.१)
ऋषिभिर्ऋषि (३.३)
वृतम्वृत (√वृ + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नू पं सिन्धु रास्य
र्शत्रिदि वो मम्
त्रा श्यत्स मे घा भं
न्य ग्रोमृषि भिर्वृ तम्