३.३३.३१

तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ।
जगामादाय वेगेन तौ चोभौ गजकच्छपौ ॥

अन्वयः

गरुडः Garuda, तेषाम् their, दयार्थम् out of compassion, शतयोजनाम् extending to a hundred yojanas, तां शाखाम् that branch, तौ उभौ both, गजकच्छपौ elephant and the tortoise, आदाय taking, वेगेन with speed, जगाम went.

Summary

Out of compassion for the (endangered) seers Garuda carried away that hundredyojanalong branch along with the elephant and the tortoise with great speed.

पदच्छेदः

तेषांतद् (६.३)
दयार्थंदया–अर्थ (२.१)
गरुडस्गरुड (१.१)
तांतद् (२.१)
शाखांशाखा (२.१)
शतयोजनाम्शत–योजन (२.१)
जगामादायजगाम (√गम् लिट् प्र.पु. एक.)–आदाय (√आ-दा + ल्यप्)
वेगेनवेग (३.१)
तौतद् (२.२)
चोभौ (अव्ययः)–उभ् (२.२)
गजकच्छपौगज–कच्छप (२.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते षां या र्थंरु
स्तां शा खां यो नाम्
गा मा दा वे गे
तौ चो भौच्छ पौ