३.३३.३३

स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः ।
अमृतानयनार्थं वै चकार मतिमान्मतिम् ॥

अन्वयः

मतिमान् wise, सः he (Garuda), तेनैव प्रहर्षेण out of that joy, द्विगुणीकृतविक्रमः with redoubled vigour, अमृतानयनार्थम् to obtain nectar, मतिम् चकार made up his mind.

M N Dutt

Thereat, attaining double energy by virtue of that delight, that intelligent one set his heart on bringing ambrosia.

Summary

Quite happy, his energy redoubled, wise Garuda made up his mind to obtain nectar.

पदच्छेदः

तद् (१.१)
तेनैवतद् (३.१)–एव (अव्ययः)
प्रहर्षेणप्रहर्ष (३.१)
द्विगुणीकृतविक्रमःद्वि–गुणीकृत (√गुणी-कृ + क्त)–विक्रम (१.१)
अमृतानयनार्थंअमृत–आनयन–अर्थ (२.१)
वैवै (अव्ययः)
चकारचकार (√कृ लिट् प्र.पु. एक.)
मतिमान्मतिमत् (१.१)
मतिम्मति (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते नैप्र र्षे
द्विगु णीकृ विक्र मः
मृ ता ना र्थं वै
काति मान्म तिम्