३.३४.१८

त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम् ।
गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ॥

अन्वयः

सीता Sita, मृगरूपिणम् in the form of a deer, त्वाम् to you, दृष्ट्वा seeing, गृह्यताम् catch it, इति thus, भर्तारम् her husband, लक्ष्मणं च and Lakshmana, निस्संशयम् without any doubt, अभिधास्यति will tell.

M N Dutt

Seeing you helpless, in the shape of a deer, Sītā will say to her lord and Lakşmaņa also, Do you catch it.

Summary

Seeing you in the form of a deer, Sita will undoubtedly ask her husband and Lakshmana to capture you.

पदच्छेदः

त्वांत्वद् (२.१)
तुतु (अव्ययः)
निःसंशयंनिःसंशय (२.१)
सीतासीता (१.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
तुतु (अव्ययः)
मृगरूपिणम्मृग–रूपिन् (२.१)
गृह्यताम्गृह्यताम् (√ग्रह् प्र.पु. एक.)
इतिइति (अव्ययः)
भर्तारंभर्तृ (२.१)
लक्ष्मणंलक्ष्मण (२.१)
चाभिधास्यति (अव्ययः)–अभिधास्यति (√अभि-धा लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वांतु निः सं यं सी ता
दृ ष्ट्वातुमृ रूपि णम्
गृह्य तामिति र्ता रं
क्ष्म णं चाभि धास्यति