३.३५.२१

स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः ।
मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः ॥

पदच्छेदः

तद् (१.१)
सर्वैःसर्व (३.३)
सचिवैःसचिव (३.३)
सार्धंसार्धम् (अव्ययः)
विभीषणपुरस्कृतैःविभीषण–पुरस्कृत (√पुरस्-कृ + क्त, ३.३)
मन्त्रयित्वामन्त्रयित्वा (√मन्त्रय् + क्त्वा)
तुतु (अव्ययः)
धर्मिष्ठैःधर्मिष्ठ (३.३)
कृत्वाकृत्वा (√कृ + क्त्वा)
निश्चयम्निश्चय (२.१)
आत्मनःआत्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वैःचि वैः सा र्धं
वि भीपुस्कृ तैः
न्त्र यि त्वातु र्मि ष्ठैः
कृ त्वा निश्च मात्म नः