३.३५.७

त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः ।
आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥

अन्वयः

कामवृत्तः passionate, दुश्शीलः a person of bad character, पापमन्त्रितः advised in evil ways, दुर्मतिः of wicked mind, त्वद्विधः one like you, सः राजा that king, आत्मानम् himself, स्वजनम् his own people, राष्ट्रम् country, हन्ति हि will ruin.

M N Dutt

The sovereign who is wicked, whimsical and of evil intent like you, bring about his own destruction as well as that of his kingdom and relatives.

Summary

A king who is a slave to passion, who is of bad conduct, of wicked thoughts, advised in evil ways destroys himself, his kith and kin and the entire kingdom.

पदच्छेदः

त्वद्विधःत्वद्विध (१.१)
कामवृत्तोकाम–वृत्त (√वृत् + क्त, १.१)
हिहि (अव्ययः)
दुःशीलःदुःशील (१.१)
पापमन्त्रितःपाप–मन्त्रित (√मन्त्रय् + क्त, १.१)
आत्मानंआत्मन् (२.१)
स्वजनंस्व–जन (२.१)
राष्ट्रंराष्ट्र (२.१)
तद् (१.१)
राजाराजन् (१.१)
हन्तिहन्ति (√हन् लट् प्र.पु. एक.)
दुर्मतिःदुर्मति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वद्वि धः का वृ त्तोहि
दुः शी लः पान्त्रि तः
त्मा नंस्व नं रा ष्ट्रं
रा जान्ति दुर्म तिः