३.३८.९

संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।
उद्यताञ्जलिना राज्ञो य इच्छेद्भूतिमात्मनः ॥

अन्वयः

यः whoever, आत्मनः his, भूतिम् riches, इच्छेत् wants, सम्पृष्टेन by him when asked, विपश्चिता by a wise man, सचिवेन by a minister, उद्यताञ्जलिना by him with folded palms, राज्ञे to the king, वक्तव्यम् be said.

M N Dutt

A wise counsellor who wishes prosperity to himself should always communicate to his master his desire with joined hands whenever asked to do so.

Summary

A wise counsellor should give advice to the king only when his opinion is sought and that too with folded hands, if he wishes his own prosperity.

पदच्छेदः

संपृष्टेनसंपृष्ट (√सम्-प्रच्छ् + क्त, ३.१)
तुतु (अव्ययः)
वक्तव्यंवक्तव्य (√वच् + कृत्, १.१)
सचिवेनसचिव (३.१)
विपश्चिताविपश्चित् (३.१)
उद्यताञ्जलिनाउद्यत (√उत्-यम् + क्त)–अञ्जलि (३.१)
राज्ञोराजन् (६.१)
यद् (१.१)
इच्छेद्इच्छेत् (√इष् विधिलिङ् प्र.पु. एक.)
भूतिम्भूति (२.१)
आत्मनःआत्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं पृ ष्टेतु क्त व्यं
चि वेविश्चि ता
द्य ताञ्जलि ना रा ज्ञो
च्छे द्भूति मात्म नः