३.३९.९

विपर्यये तु तत्सर्वं व्यर्थं भवति रावण ।
व्यसनं स्वामिवैगुण्यात्प्राप्नुवन्तीतरे जनाः ॥

अन्वयः

रावण Ravana, विपर्यये if it be otherwise, तत् then, सर्वम् everything (the four attainments), व्यर्थं भवति will become useless, स्वामि वैगुण्यात् by the vices of the king, इतरे जनाः others, व्यसनम् calamity, प्राप्नुवन्ति suffer.

M N Dutt

But those objects are never attained O Rāvana when they are not in good odour with their sovereign; moreover the subjects meet with dangers when he is devoid of all qualities.

Summary

Otherwise evrything will become useless, O Ravana Others will suffer calamities on account of their master's vices.

पदच्छेदः

विपर्ययेविपर्यय (७.१)
तुतु (अव्ययः)
तत्तद् (१.१)
सर्वंसर्व (१.१)
व्यर्थंव्यर्थ (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
रावणरावण (८.१)
व्यसनंव्यसन (२.१)
स्वामिवैगुण्यात्स्वामिन्–वैगुण्य (५.१)
प्राप्नुवन्तीतरेप्राप्नुवन्ति (√प्र-आप् लट् प्र.पु. बहु.)–इतर (१.३)
जनाःजन (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विर्य येतु त्स र्वं
व्य र्थंति रा
व्य नं स्वामि वै गु ण्या
त्प्राप्नु न्ती रे नाः