३.४.१३

उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः ।
रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥

M N Dutt

Over the breasts of all appear chains of blazing sheen; and, O son of Sumitrā, their beauty appears that of five and twenty.

पदच्छेदः

उरोदेशेषुउरस्–देश (७.३)
सर्वेषांसर्व (६.३)
हाराहार (१.३)
ज्वलनसंनिभाःज्वलन–संनिभ (१.३)
रूपंरूप (२.१)
बिभ्रतिबिभ्रति (√भृ लट् प्र.पु. बहु.)
सौमित्रेसौमित्रि (८.१)
पञ्चविंशतिवार्षिकम्पञ्चविंशति–वार्षिक (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रो दे शेषु र्वे षां
हा राज्व संनि भाः
रू पं बिभ्रति सौ मि त्रे
ञ्च विंति वार्षि कम्