३.४.१७

ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः ।
शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत् ॥

अन्वयः

ततः then, शचीपतिः husband of Sachi (Indra), समभिगच्छन्तम् coming towards him, रामम् to Rama, प्रेक्ष्य seeing, शरभङ्गम् Sarabhanga, अनुप्राप्य having reached, विविक्ते in private, इदम् this, अब्रवीत् said.

M N Dutt

And seeing Rāma approach, Saci's lord, taking Sarabhanga's permission, addressed the celestials.

Summary

Then Indra (husband of Sachi) having seen Rama coming towards him, approached Sarabhanga and said this to him privately:

पदच्छेदः

ततःततस् (अव्ययः)
समभिगच्छन्तंसमभिगच्छत् (√समभि-गम् + शतृ, २.१)
प्रेक्ष्यप्रेक्ष्य (√प्र-ईक्ष् + ल्यप्)
रामंराम (२.१)
शचीपतिःशचीपति (१.१)
शरभङ्गम्शरभङ्ग (२.१)
अनुज्ञाप्यअनुज्ञाप्य (√अनु-ज्ञापय् + ल्यप्)
विबुधान्विबुध (२.३)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःभि च्छ न्तं
प्रेक्ष्य रा मं ची तिः
ङ्ग नु ज्ञाप्य
विबु धानिब्र वीत्