३.४०.१

एवमुक्त्वा तु परुषं मारीचो रावणं ततः ।
गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः ॥

अन्वयः

ततः then, मारीचः Maricha, एवम् in that way, वचनम् words, उक्त्वा spoken, रात्रिंचरप्रभोः of the king of the nightrangers, भयात् out of fear, दीनः distressed , गच्छाव let us both go, इति thus, रावणम् to Ravana, अब्रवीत् said.

M N Dutt

Speaking these harsh words to Rāvana, Mārīca being afraid of him said, We shall both go.

Summary

Having thus spoken to the demonking, the distressed Maricha said out of fear, Let both of us go.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
तुतु (अव्ययः)
परुषंपरुष (२.१)
मारीचोमारीच (१.१)
रावणंरावण (२.१)
ततःततस् (अव्ययः)
गच्छावेत्य्गच्छाव (√गम् लोट् उ.पु. एक.)–इति (अव्ययः)
अब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
दीनोदीन (१.१)
भयाद्भय (५.१)
रात्रिंचरप्रभोःरात्रिंचर–प्रभु (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्त्वातुरु षं
मा री चो रा णं तः
च्छा वे त्यब्र वी द्दी नो
या द्रा त्रिंप्र भोः