३.४०.१५

वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः ।
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः ॥

पदच्छेदः

वैडूर्यसंकाशखुरस्वैडूर्य–संकाश–खुर (१.१)
तनुजङ्घःतनु–जङ्घा (१.१)
सुसंहतःसु (अव्ययः)–संहत (√सम्-हन् + क्त, १.१)
इन्द्रायुधसवर्णेनइन्द्रायुध–सवर्ण (३.१)
पुच्छेनोर्ध्वंपुच्छ (३.१)–ऊर्ध्वम् (अव्ययः)
विराजितःविराजित (√वि-राज् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वै दूर्य सं काखु
स्तनु ङ्घःसु सं तः
न्द्रायु र्णे
पु च्छे नो र्ध्वंवि राजि तः