३.४०.१६

मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः ।
क्षणेन राक्षसो जातो मृगः परमशोभनः ॥

पदच्छेदः

मनोहरस्निग्धवर्णोमनोहर–स्निग्ध–वर्ण (१.१)
रत्नैर्रत्न (३.३)
नानाविधैर्नानाविध (३.३)
वृतःवृत (√वृ + क्त, १.१)
क्षणेनक्षण (३.१)
राक्षसोराक्षस (१.१)
जातोजात (√जन् + क्त, १.१)
मृगःमृग (१.१)
परमशोभनःपरम–शोभन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नो स्निग्ध र्णो
त्नै र्ना नावि धैर्वृ तः
क्ष णे राक्ष सो जा तो
मृ गः शो नः